|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.256. अध्यायः 256
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ब्राह्मणमहिमप्रशंसनपूर्वकं तेषां पूज्यत्वादिकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
के पूज्याः के नमस्कार्या कथं वर्तेत केषु च।
किमाचारः कीदृशेषु पितामह न रिष्यते॥ 13-256-1(91733)
भीष्म उवाच। 13-256-2x(7690)
ब्राह्मणानां परिभवः सादयेदपि देवताः।
ब्राह्मणांस्तु नमस्कृत्य युधिष्ठिर न रिष्यते॥ 13-256-2(91734)
ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत्।
ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः॥ 13-256-3(91735)
ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः॥
धनत्यागाभिरामास्चि वाक्सङ्गमधुराश्च ये॥ 13-256-4(91736)
रमणीयाश्च भूतानां नियमेन धृतव्रताः।
प्रणेतारश्च कोशानां शास्त्राणां च यशस्विनः॥ 13-256-5(91737)
तपो येषां धनं नित्यं वाक्चैव विपुलं बलम्।
प्रसवाश्चैव धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः॥ 13-256-6(91738)
धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेवतः।
यान्समाश्रित्य तिष्ठन्ति प्रजाः सर्वाश्चतुर्विधाः॥ 13-256-7(91739)
पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः।
पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा॥ 13-256-8(91740)
धुरि ये नावसीदन्ति विषमे सद्धया इव।
पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः॥ 13-256-9(91741)
भोजनादेव लोकांस्त्रींस्त्रायन्ते महतो भयात्।
दीपः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि॥ 13-256-10(91742)
सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः।
गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः॥ 13-256-11(91743)
आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः।
परावरविशेषज्ञा गन्तारः परमां गतिम्॥ 13-256-12(91744)
विमुक्ता धूतपाप्मानो निर्द्वन्द्वा निष्परिग्रहाः।
मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः॥ 13-256-13(91745)
चन्दने मलपङ्के च भोजनेऽभोजने समाः।
समं येषां दुकूलं च शाणक्षौमाजिनानि च॥ 13-256-14(91746)
तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि।
शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः॥ 13-256-15(91747)
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्।
लोकानन्यान्सृजेयुस्ते लोकपालांश्च कोपिताः॥ 13-256-16(91748)
अपेयः सागरो येषामपि सापान्महात्मनाम्।
येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति॥ 13-256-17(91749)
देवानामपि ये देवाः कारणं कारणस्य च।
प्रमामस्य प्रमाणं च तस्मान्नाभिभवेद्बुधः॥ 13-256-18(91750)
तेषां वृद्धाश्च बालाश्च सर्वे सन्मार्गदर्शिनः।
तपोविद्याविशेषात्तु मानयन्ति परस्परम्॥ 13-256-19(91751)
अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत्।
विद्वान्भूयस्तरो देवः पूर्णसागरसन्निभः॥ 13-256-20(91752)
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत्।
प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत्॥ 13-256-21(91753)
श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति।
हविर्यज्ञे च विधिवद्भूय एवाभिशोभते॥ 13-256-22(91754)
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु।
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम्॥ ॥ 13-256-23(91755)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः॥ 256 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-256-1 किमाचारः कथं धर्मः कीदृशेषु न रिष्यते इति क.पाठः॥ 7-256-16 अदैवं दैवतं कुर्युर्भस्म कुर्युश्च ते जगत् इति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|